(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.99. अध्यायः 099
Mahabharata - Bhishma Parva - Chapter Topics
कुरुपाण्डवसेनयोर्व्यूहरचनापूर्वकं परस्पराभिगमनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-99-0x(4188)(43230)
ततः शान्तनवो भीष्मो निर्ययौ सह सेनया।
व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ॥ 6-99-1(43231)
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।
शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ॥ 6-99-2(43232)
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ 6-99-3(43233)
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ 6-99-4(43234)
अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ ।
महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ 6-99-5(43235)
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ 6-99-6(43236)
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ 6-99-7(43237)
एवं च तं तदा व्यूहं कृत्वा भारत तावकाः।
सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ 6-99-8(43238)
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः।
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ 6-99-9(43239)
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ 6-99-10(43240)
स्थिताः सैन्येन महता परानीकविनाशनाः ।
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ॥ 6-99-11(43241)
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।
स्थिता रणे महाराज महत्या सेनया वृताः ॥ 6-99-12(43242)
अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः ।
युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ॥ 6-99-13(43243)
केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः ।
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ॥ 6-99-14(43244)
पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः ।
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ॥ 6-99-15(43245)
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप।
तथैव पाण्डवा राजन्भीमसेनपरोगमाः ॥ 6-99-16(43246)
भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः ।
क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ॥ 6-99-17(43247)
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्।
पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ 6-99-18(43248)
भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः ।
उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ 6-99-19(43249)
वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः ।
सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत् ॥ 6-99-20(43250)
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।
ततः शब्देन महता प्रचकम्पे वसुंधरा ॥ 6-99-21(43251)
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ 6-99-22(43252)
ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् ।
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ 6-99-23(43253)
वेदयन्त्यो महाराज महद्वैशसमागतम्।
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ॥ 6-99-24(43254)
रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च ।
रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ॥ 6-99-25(43255)
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते ।
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ॥ 6-99-26(43256)
रक्षसां पुरुषादानां नदतां भैरवान्रवान् ।
संपतन्तश्च दृश्यन्ते गोमायबलवायसाः ॥ 6-99-27(43257)
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष ।
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।
निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ॥ 6-99-28(43258)
महान्त्यनीकानि महासमुच्छ्रये
ततस्तयोः पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः
प्रकम्पितानीव वनानि वायुना ॥ 6-99-29(43259)
नरेन्द्रनागाश्वसमाकुलाना-
मभ्यायतीनामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां
वातोद्धुतानामिव सागराणाम् ॥ ॥ 6-99-30(43260)

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकोनशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-99-27 बलवायसाः बलोदग्राः काकाः ॥ 6-99-29 महासमुच्छ्रये महति युद्धे ॥ 6-99-30 अभ्यायतीनामभिमुखमागच्छन्तीनाम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.